श्रीपाद श्रीवल्लभ त्वं सदैव
श्रीदत्तास्मान् पाहि श्रीदत्तास्मान् देवाधिदेव ।
भवग्रहक्लेशहारिन् सुकीर्तेभवग्रहक्लेशहारिन् सुकीर्ते
घोरकष्टादुद्धरास्मान् नमस्तेघोरकष्टादुद्धरास्मान् नमस्ते ॥ १ ॥
त्वं नो माता त्वं पिताप्तोऽधिपस्त्वं
त्राता योगक्षेमकृत् सद्गुरुस्त्वम्योगक्षेमकृत् सद्गुरुस्त्वम् ।
सद्गुरुस्त्वम् त्वं सर्वस्वं नो प्रभो विश्वमूर्ते
घोरकष्टादुद्धरास्मान् नमस्तेघोरकष्टादुद्धरास्मान् नमस्ते ॥ २ ॥
पापं तापं व्याध्यादीं च दैन्यम्
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्वदन्यम् त्रातारं नो वीक्ष इषास्तजूर्ते
घोरकष्टादुद्धरास्मान् नमस्तेघोरकष्टादुद्धरास्मान् नमस्ते ॥ ३ ॥
नान्यस्त्राता न पीडान् नपीडान् भर्ता
त्वत्तो देव त्वं शरण्यो शोकहर्ता ।
कुर्वत्रेय अनुग्रहं पूर्णरते
घोरकष्टादुद्धरास्मान् नमस्तेघोरकष्टादुद्धरास्मान् नमस्ते ॥ ४ ॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं
सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम् ।
मुक्तिम् भाव शक्तिं च अखिलानन्दमूर्ते
घोरकष्टादुद्धरास्मान् नमस्तेघोरकष्टादुद्धरास्मान् नमस्ते ॥ ५ ॥
श्लोकपञ्चकमेतद्यो लोकमङ्गलवर्धनम् ।
लोकमङ्गलवर्धनम् प्रपत्तेन नियतो भक्त्या स श्री दत्तप्रियो भवेत् ॥ ६ ॥
इति श्रीमत् परमहंस श्रीमत् परमहंस परिव्राजकाचार्य
श्रीमद् वासुदेवानन्द सरस्वती स्वामी विरचितं
घोर कष्टोद्धारण स्तोत्रं सम्पूर्णम् ॥